Posts

Showing posts from October, 2021

श्री महालक्ष्मी अष्टकम् | Shri Mahalaxmi Ashtakam lyrics | Mahalaxmi Kolhapur |

Image
  ।। श्रीमहालक्ष्म्यष्टकं स्तोत्रं ।। श्री गणेशायनमः।। इंद्र उवाच। नमस्तेऽस्तु महामायेश्रीपीठे सुरपूजिते। शङ्खचक्रगदाहस्तेमहालक्ष्मि नमोऽस्तुते॥१॥ नमस्ते गरुडारूढेकोलासुरभयंकरि। सर्वपापहरे देविमहालक्ष्मि नमोऽस्तुते॥२॥ सर्वज्ञे सर्ववरदेसर्वदुष्टभयंकरि। सर्वदुःखहरे देविमहालक्ष्मि नमोऽस्तुते॥३॥ सिद्धिबुद्धिप्रदे देविभुक्तिमुक्तिप्रदायिनि। मन्त्रमूर्ते सदा देविमहालक्ष्मि नमोऽस्तुते॥४॥ आद्यन्तरहिते देविआद्यशक्तिमहेश्वरि। योगजे योगसम्भूतेमहालक्ष्मि नमोऽस्तुते॥५॥ स्थूलसूक्ष्ममहारौद्रेमहाशक्तिमहोदरे। महापापहरे देविमहालक्ष्मि नमोऽस्तुते॥६॥ पद्मासनस्थिते देविपरब्रह्मस्वरूपिणि। परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते॥७॥ श्वेताम्बरधरे देविनानालङ्कारभूषिते। जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते॥८॥ महालक्ष्म्यष्टकं स्तोत्रंयः पठेद्भक्तिमान्नरः। सर्वसिद्धिमवाप्नोतिराज्यं प्राप्नोति सर्वदा॥९॥ एककाले पठेन्नित्यंमहापापविनाशनम्। द्विकालं यः पठेन्नित्यंधनधान्यसमन्वितः॥१०॥ त्रिकालं यः पठेन्नित्यंमहाशत्रुविनाशनम्। महालक्ष्मिर्भवेन्नित्यंप्रसन्ना वरदा शुभा॥११॥ इतींद्रकृतः श्रीमहालक्ष्मष्टकं संपूर्णं।।