Pranamya Shirsa Devam Ganapati Stotra lyrics | प्रणम्य शिरसा देवम् संकटनाशन महागणपति स्तोत्रम् |

श्री गणेशाय नमः |

नारद उवाच


प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।

भक्तावासं स्मरेन्नित्यायुः कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।

सप्तमं विघ्नराजेनद्रं धूम्रवर्णं तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।

एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

न च विघ्नभयं तस्य सर्वसिद्धि करं प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥६॥

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।

संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

इति श्री नारद पुराणे संकटनाशनं नाम महागणपति स्तोत्रं संपूर्णम् |



प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम। तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम।।2।।

Read more at:
http://timesofindia.indiatimes.com/articleshow/75154798.cms?utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst
प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम। तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम।।2।।

Comments

Popular posts from this blog

स्वप्नात आले माझ्या गुरुदेवदत्त | Swapnat Ale Mazya Gurudev Datta lyrics |

श्रीगुरुदत्ता जयभगवंता।Shri Gurudatta Jai Bhagawanta lyrics | Karunatripadi Part 2 |

आज लक्ष्मी हो चरण दाखवी | लक्ष्मी माता आरती | Aaj Lakshmi Ho Charan Dakhavi lyrics | Laxmi Mata Aarti | गौराई आरती | महालक्ष्मी (गौरी) आरती